|
|
 |
 |
|
|
८ कर्णपर्व.jpg)
॥ श्रीः ॥
8.1. अध्यायः 001
Mahabharata - Karna Parva - Chapter Topics
शिबिराद्धास्तिनपुरमुपगतवता सञ्जयेन धृतराष्ट्रंप्रति कर्णादिनिधनकथनम्॥ 1 ॥ तच्छ्रवणेन मूर्च्छामुपगतवतो धृतराष्ट्रस्य सञ्जयादिभिराश्वासनम्॥ 2 ॥

Mahabharata - Karna Parva - Chapter Text
श्रीवेदव्यासाय नमः। 8-1-0x(4817)(54873)
नारायणं नमस्कृत्य नरं चैव नरोत्तमम्।
देवीं सरस्वतीं व्यासं ततो जयमुदीरयेत्॥ 8-1-1(54874)
`वैशम्पायन उवाच।
शिबिराद्धास्तिनपुरं प्राप्य भारत सञ्जयः।
प्रविवेश महाबाहुर्धृतराष्ट्रनिवेशनम्॥ 8-1-1x(4818)
शोकेनापहतः सूतो विलपन्भृशदुःखितः।
चिन्तयन्निधनं घोरं सूतपुत्रस्य पाण्डवैः॥ 8-1-2(54875)
अन्तःपुरं प्रविश्यैव सञ्जयो राजसत्तमम्।
अश्रुपूर्णो भृशं त्रस्तो राजानमुपजग्मिवान्॥ 8-1-3(54876)
उपस्थाय च राजानं विनिश्वस्य च सूतजः।
नातिहृष्टमना राजन्निदं वचनमब्रवीत्॥ 8-1-4(54877)
सञ्जय उवाच। 8-1-5x(4819)
सञ्चयोऽहं महाराज नमस्ते भरतर्षभ।
हतो वैकर्तनः कर्णः कृत्वा कर्म सुदुष्करम्॥ 8-1-5(54878)
चेदिकाशिकरूशानां मत्स्यानां सोमकैः सह।
कृत्वाऽसौ कदनं शेते वातनुन्न इव द्रुमः॥ 8-1-6(54879)
गोष्ठमध्येव ऋषभो गोव्रजैः परिवारितः।
व्यालेन निहतो यद्वत्तथाऽसौ निहतः परैः॥ 8-1-7(54880)
निराशान्पाण्डवान्कृत्वा दृढं राजन्ससात्यकान्।
पाञ्चालानां रथांश्चैव विनिहत्य सहस्रशः॥ 8-1-8(54881)
जित्वा शूरान्महेष्वासान्विद्राव्य च दिशोदश।
हतो वैकर्तनः कर्णः पाण्डवेन किरीटिना॥ 8-1-9(54882)
वैरस्य गत आनृण्यं दुर्गमस्य दुरात्मभिः।
हत्वा कर्णं महाराज विशल्यः पाण्डवोऽभवत्॥ 8-1-10(54883)
शोषणं सागराणां वा पतनं वा विवस्वतः।
विशीर्णत्वं यथा मेरोस्तथा कर्णस्य पातनम्॥ 8-1-11(54884)
योधाश्च बहवो राजन्हतास्तत्र जयैषिणः।
राजानो राजपुत्राश्च शूराः परिघबाहवः॥ 8-1-12(54885)
रथौघाश्च नरौघाश्च हता राजन्सहस्रशः।
वारणा निहतास्तत्र वाजिनश्च महाहवे॥ 8-1-13(54886)
क्षत्रियाश्च महाराज सेनयोरुभयोर्हताः।
परस्परं वै वीक्ष्यात्र परस्परकृतागसः॥ 8-1-14(54887)
किञ्चिच्छेषान्परान्कृत्वा तीर्त्वा पाण्डववाहिनीम्।
पार्थवेलां समासाद्य हतो वैकर्तनो वृषा॥ 8-1-15(54888)
जयाशा धार्तराष्ट्राणां वैरस्य च मुखं नृप।
तीर्णं तत्पाण्डवै राजन्यत्पुरा नावबुध्यसे॥ 8-1-16(54889)
प्रोच्यमानं महाराज बन्धुभिर्हितबुद्धिभिः।
तदिदं समनुप्राप्तं व्यसनं त्वां महाभयम्॥ 8-1-17(54890)
पुत्राणां राज्यकामेन त्वया राजन्हितैषिणा।
चरितान्यहितान्येव तेषां ते फलमागतम्॥ 8-1-18(54891)
हतो दुःशासनो राजन्यथोक्तं पाण्डवेन तु।
प्रतिज्ञा भीमसेनेन निस्तीर्णा सा चमूमुखे॥ 8-1-19(54892)
पीतं च क्षतजं तस्य धार्तराष्ट्रस्य संयुगे।
पाण्डवेन महाराज कर्म कृत्वा सुदुष्करम्*'॥ 8-1-20(54893)
वैशम्पायन उवाच। 8-1-21x(4820)
एतच्छ्रुत्वा महाराज धृतराष्ट्रोऽम्बिकासुतः।
शोकस्यान्तमपश्यन्वै हतं मत्वा सुयोधनम्।
विह्वलः पतितो भूमौ नष्टचेता इव द्विपः॥ 8-1-21(54894)
तस्मिन्निपतिते भूमौ विह्वले राजसत्तमे।
आर्तनादो महानासीत्स्त्रीणां भरतसत्तम॥ 8-1-22(54895)
श शब्दः पृथिवीं कृत्स्नां पूरयामास सर्वशः॥ 8-1-23(54896)
शोकार्णवे महाघोरे निमग्ना भरतस्त्रियः।
रुरुदुर्दुःखशोकार्ता भृशमुद्विग्नचेतसः॥ 8-1-24(54897)
राजानं च समासाद्य गान्धारी भरतर्षभ।
निःसंज्ञा पतिता भूमौ सर्वाण्यन्तः पुराणि च॥ 8-1-25(54898)
ततस्ताः स़ञ्जयो राजन्समाश्वासयदातुराः।
मुह्यामानाः सुबहुशो मुञ्चन्तीर्वारि नेत्रजम्॥ 8-1-26(54899)
समाश्वस्ताः स्त्रियस्तास्तु वेपमाना मुहुर्मुहुः।
कदल्य इव वातेन धूयमानाः समन्ततः॥ 8-1-27(54900)
राजानं विदुरश्चापि प्रज्ञाचक्षुषमीश्वरम्।
आश्वासयामास तदा सिञ्चंस्तोयेन कौरवम्॥ 8-1-28(54901)
स लब्ध्वा सनकैः संज्ञां ताश्च दृष्ट्वा स्त्रियो नृपः।
उन्मत्त इव राजेन्द्र स्थितस्तूष्णीं विशाम्पते॥ 8-1-29(54902)
ततो ध्यात्वा चिरं कालं निःश्वस्य च पुनःपुनः।
स्वान्पुत्रान्गर्हयामास बहुमेने च पाण्डवान्॥ 8-1-30(54903)
गर्हयंश्चात्मनो बुद्धिं शकुनेः सौबलस्य च।
ध्यात्वा तु सुचिरं कालं वेपमानो मुहुर्मुहुः॥ 8-1-31(54904)
संस्तभ्य च मनो भूयो राजा धैर्यसमन्वितः।
पुनर्गावल्गणिं सूतं पर्यपृच्छत सञ्जयम्॥ 8-1-32(54905)
न त्वया कथितं वाक्यं श्रुतं सञ्जय तन्मया॥ 8-1-33(54906)
कच्चिद्दुर्योधनः सूत न गतो वै यमक्षयम्।
जये निराशः पुत्रो मे सततं जयकामुकः।
ब्रूहि सञ्जय तत्त्वेन पुनरुक्तां कथामिमाम्॥ 8-1-34(54907)
वैशम्पायन उवाच। 8-1-35x(4821)
एवमुक्तोऽब्रवीत्सूतो राजानं जनमेजय।
हतो वैकर्तनो राजन्सहपुत्रैर्महारथः।
भ्रातृभिश्च महेष्वासैः सूतपुत्रैस्तनुत्यजैः॥ 8-1-35(54908)
दुःशासनश्च निहतः पाण्डवेन यशस्विना।
पीतं च रुधिरं कोपाद्भीमसेनेन संयुगे॥ 8-1-36(54909)
`वैशम्पायन उवाच। 8-1-37x(4822)
एतच्छ्रुत्वा महाराज धृतराष्ट्रोऽम्बिकासुतः।
दह्यमानोऽब्रवीत्सूतं मुहूर्तं तिष्ठ सञ्जय।
व्याकुलं मे मनस्तात मा तावत्किंचिदुच्यताम्॥ 8-1-37(54910)
राजापि नाब्रवीत्किञ्चित्सञ्जयो विदुरस्तथा।
तूष्णीम्भूतस्तदा सोऽथ बभूव जगतीपतिः'॥ ॥ 8-1-38(54911)
इति श्रीमन्महाभारते कर्णपर्वणि प्रथमोऽध्यायः॥ 1 ॥

Mahabharata - Karna Parva - Chapter Topics
दुर्योधनादिभिः कर्णस्य सैनापत्येऽभिषेचनपूर्वकं युद्धाय निर्याणम्॥ 1 ॥ जनमेजयेन वैशम्पायनम्प्रति कर्णमरणश्राविणो धृतराष्ट्रस्य प्रवृत्तिप्रश्नः॥ 2 ॥
Mahabharata - Karna Parva - Chapter Text
श्रीकृष्णाय नमः॥ 8-1-0x(4823)(54912)
[नारायणं नमस्कृत्य नरं चैव नरोत्तमम्।
देवीं सरस्वतीं चैव ततो जयमुदीरयेत्॥ 8-1-1(54913)
वैशम्पायन उवाच। 8-1-2x(4824)
ततो द्रोणे हते राजन्दुर्योधनमुखा नृपाः।
भृशमुद्विग्नमनसो द्रोणपुत्रमुपागमन्॥ 8-1-2(54914)
ते द्रोणमनुशोचन्तः कश्मलाभिहतौजसः।
पर्युपासन्त शोकार्तास्ततः शारद्वतीसुतम्॥ 8-1-3(54915)
ते मुहूर्तं समाश्वस्य हेतुभिः शास्त्रसम्मितैः।
रात्र्यागमे महीपालाः स्वानि वेश्मानि भेजिरे॥ 8-1-4(54916)
ते वेश्मस्वपि कौरव्य पृथ्वीशा नाप्नुवन्सुखम्।
चिन्तयन्तः क्षयं तीव्रं दुःखशोकसमन्विताः॥ 8-1-5(54917)
विशेषतः सूतपुत्रो राजा चैव सुयोधनः।
दुःशासनश्च शकुनिः सौबलश्च महाबलः॥ 8-1-6(54918)
उषितास्ते निशां तां तु दुर्योधननिवेशने।
चिन्तयन्तः परिक्लेशान्पाण्डवानां महात्मनाम्॥ 8-1-7(54919)
यत्तद्द्यूते परिक्लिष्टा कृष्णा चानायिता सभाम्।
तत्स्मरन्तोऽनुशोचन्तो भृशमुद्विग्नचतेतसः॥ 8-1-8(54920)
तथा तु सञ्चिन्तयतां तान्क्लेशान्द्यूतकारितान्।
दुःखेन क्षणदा राजञ्जगामाब्दशतोपमा॥ 8-1-9(54921)
ततः प्रभाते विमले स्थिता दिष्टस्य शासने।
चक्रुरावश्यकं सर्वे विधिदृष्टेन कर्मणा॥ 8-1-10(54922)
ते कृत्वाऽवश्यकार्याणि समाश्वस्य च भारत।
योगमाज्ञापयामासुर्युद्वाय च विनिर्ययुः॥ 8-1-11(54923)
कर्णं सेनापतिं कृत्वा कृतकौतुकमङ्गलाः।
पूजयित्वा द्विजश्रेष्ठान्दधिपात्रघृताक्षतैः॥ 8-1-12(54924)
गोभिरश्वैश्च निष्कैश्च वासोभिश्च महाधनैः।
वन्द्यमाना जयाशीर्भिः सूतमागधबन्दिभिः॥ 8-1-13(54925)
तथैव पाण्डवा राजन्कृतपूर्वाह्णिकक्रियाः।
शिबिरान्निर्ययुस्तूर्णं युद्वाय कृतनिश्चयाः॥ 8-1-14(54926)
ततः प्रववृते युद्वं तुमुलं रोमहर्षणम्।
कुरूणां पाण्डवानां च परस्परजयैषिणाम्॥ 8-1-15(54927)
तयोर्द्वौ दिवसौ युद्वं कुरुपाण्डवसेनयोः।
कर्णे सेनापतौ राजन्बभूवाद्भुतदर्शनम्॥ 8-1-16(54928)
ततः शत्रुक्षयं कृत्वा सुमहान्तं रणे वृषः।
पश्यतां धार्तराष्ट्राणां फल्गुनेन निपातितः॥ 8-1-17(54929)
ततस्तु सञ्जयः सर्वं गत्वा नागपुरं द्रुतम्।
आचष्ट धृतराष्ट्राय यद्वृत्तं कुरुजाङ्गले॥ 8-1-18(54930)
जनमयेजय उवाच। 8-1-19x(4825)
आपगेयं हतं श्रुत्वा द्रोणं चापि महारथम्।
आजगाम परामार्तिं वृद्वो राजाऽम्बिकासुतः॥ 8-1-19(54931)
स श्रुत्वा निहतं कर्णं दुर्योधनहितैषिणम्।
कथं द्विजवर प्राणानधारयत दुःखितः॥ 8-1-20(54932)
यस्मिञ्जयाशां पुत्राणां सममन्यत पार्थिवः।
तस्मिन्हते स कौरव्यः कथं प्राणानधारयत्॥ 8-1-21(54933)
दुर्मरं तदहं मन्ये नृणां कृच्छ्रेऽपि वर्तताम्।
यत्र कर्णं हतं श्रुत्वा नात्यजज्जीवितं नृपः॥ 8-1-22(54934)
तथा शान्तनवं वृद्वं ब्रह्मन्बाह्लीकमेव च।
द्रोणं च सोमदत्तं च भूरिश्रवसमेव च॥ 8-1-23(54935)
तथैव चान्यान्सुहृदः पुत्रान्पौत्रांश्च पातितान्।
श्रुत्वा यन्नाजहात्प्राणांस्तन्मन्ये दुष्करं द्विज॥ 8-1-24(54936)
एतन्मे सर्वमाचक्ष्व विस्तरेण महामुने।
न हि तृप्यामि पूर्वेषां शृण्वानश्चरितं महत्॥ ॥ 8-1-25(54937)
इति श्रीमन्महाभारते कर्णपर्वणि षोडशदिवसयुद्धारम्भे प्रथमोऽध्यायः॥ 1 ॥
Mahabharata - Karna Parva - Chapter Topics
धृतराष्ट्रेण भीष्मद्रोणौ प्रत्यनुशोचनपूर्वकं सञ्जयम्प्रति दुर्योधनादिप्रवृत्तिप्रश्नः॥ 1 ॥
Mahabharata - Karna Parva - Chapter Text
वैशम्पायन उवाच। 8-1-0x(4826)(54938)
हते कर्णे महाराज निशि गावल्गणिस्तदा।
दीनो ययौ नागपुरमश्वैर्वातसमैर्जवे॥ 8-1-1(54939)
स हास्तिनपुरं गत्वा भृशमुद्विग्नचेतनः।
जगाम धृतराष्ट्रस्य क्षयं प्रक्षीणबान्धवम्॥ 8-1-2(54940)
स तमुद्वीक्ष्य राजानं कश्मलाभिहतौजसम्।
ववन्दे प्राञ्जलिर्भूत्वा मूर्ध्ना पादौ नृपस्य ह॥ 8-1-3(54941)
सम्पूज्य च यथान्यायं धृतराष्ट्रं महीपतिम्।
हा कष्टमिति चोक्त्वा स ततो वचनमाददे॥ 8-1-4(54942)
सञ्जयोऽहं क्षितिपते कच्चिदास्ते सुखं भवान्।
स्वदोषैरापदं प्राप्य कच्चिन्नाद्य विमुह्यति॥ 8-1-5(54943)
हितान्युक्तानि विदुरद्रोणगाङ्गेयकेशवैः।
अगृहीतान्यनुस्मृत्य कच्चिन्न कुरुषे व्यथाम्॥ 8-1-6(54944)
रामनारदकण्वाद्यैर्हितमुक्तं सभातले।
न गृहीतमनुस्मृत्य कच्चिन्न कुरुषे व्यथाम्॥ 8-1-7(54945)
सुहृदस्त्वद्विते युक्तान्भीष्मद्रोणमुखान्परैः।
निहतान्युधि संस्मृत्य कच्चिन्न कुरुषे व्यथाम्॥ 8-1-8(54946)
तमेवंवादिनं राजा सूतपुत्रं कृताजलिम्।
सुदीर्घमथ निःश्वस्य दुःखार्त इदमब्रवीत्॥ 8-1-9(54947)
धृतराष्ट्र उवाच। 8-1-10x(4827)
आपगेये हते शूरे दिव्यास्त्रवति सञ्जय।
द्रोणे च परमेष्वासे भृशं मे व्यथितं मनः॥ 8-1-10(54948)
यो रथानां सहस्राणि दंशितानां दशैव तु।
अहन्यहनि तेजस्वी निजघ्ने वसुसम्भवः॥ 8-1-11(54949)
तं हतं यज्ञसेनस्य पुत्रेणेह शिखण्डिना।
पाण्डवेयाभिगुप्तेन श्रुत्वा मे व्यथितं मनः॥ 8-1-12(54950)
भार्गवः प्रददौ यस्मै परमास्त्रं महाहवे।
साक्षाद्रामणे यो बाल्ये धनुर्वेद उपाकृतः॥ 8-1-13(54951)
यस्य प्रसादात्कौन्तेया राजपुत्रा महारथाः।
महारथत्वं सम्प्राप्तास्तथाऽन्ये वसुधाधिपाः॥ 8-1-14(54952)
तं द्रोणं निहतं श्रुत्वा धृष्टद्युम्नेन संयुगे।
सत्यसन्धं महेष्वासं भृशं मे व्यथितं मनः॥ 8-1-15(54953)
ययोर्लोके पुमानस्त्रे न समोऽस्ति चतुर्विधे।
तौ द्रोणभीष्मौ श्रुत्वा तु हतौ मे व्यथितं मनः॥ 8-1-16(54954)
त्रैलोक्ये यस्य चास्त्रेषु न पुमान्विद्यते समः।
तं द्रोणं निहतं श्रुत्वा किमकुर्वत मामकाः॥ 8-1-17(54955)
संशप्तकानां च बले पाण्डवेन महात्मना।
धनञ्जयेन विक्रम्य गमिते यमसादनम्॥ 8-1-18(54956)
नारायणास्त्रे च हते द्रोणपुत्रस्य धीमतः।
विप्रद्रुतानहं मन्येनिमग्नाञ्शोकसागरे। 8-1-19(54957)
प्लवमानान्हते द्रोणे सन्ननौकानिवार्णवे॥
दुर्योधनस्य कर्णस्य भोजस्य कृतवर्मणः। 8-1-20(54958)
मद्रराजस्य शल्यस्य द्रौणेश्चैव कृपस्य च॥
मत्पुत्रस्य च शेषस्य तथाऽन्येषां च सञ्जय। 8-1-21(54959)
विप्रद्रुतेष्वनीकेषु मुखवर्णोऽभवत्कथम्॥
एतत्सर्वं यथावृत्तं तथा गावल्गणे मम। 8-1-22(54960)
आचक्ष्व पाण्डवेयानां मामकानां च विक्रमम्॥ 8-1-23(54961)
सञ्जय उवाच। 8-1-23x(4828)
तवापराधाद्यद्वृत्तं कौरवेयेषु मारिष।
तच्छ्रुत्वा मा व्यथां कार्षीर्दिष्टे न व्यथते बुधः॥ 8-1-24(54962)
यस्मादभावी भावी वा भवेदर्थो नरं प्रति।
अप्राप्तौ तस्य वा प्राप्तौ न कश्चिद्यथते बुधः॥ 8-1-25(54963)
धृतराष्ट्र उवाच। 8-1-26x(4829)
न व्यथाऽभ्यधिका काचिद्विद्यते मम सञ्जय।
दिष्टमेतत्पुरा मन्ये कथयस्य यथेच्छकम्॥ ॥ 8-1-26(54964)
इति श्रीमन्महाभारते कर्णपर्वणि द्वितीयोऽध्यायः॥ 2 ॥
Mahabharata - Karna Parva - Chapter Topics
दुर्योधनेन द्रोणमरणनिर्विण्णानां सैनिकानां कर्णगुणानुवर्णनेन प्रोत्साहनम्॥ 1 ॥ सञ्जयेन धृतराष्ट्रम्प्रति कर्णपराक मप्रशंसनपूर्वकं तन्निधनकथनम्॥ 2 ॥

Mahabharata - Karna Parva - Chapter Text
सञ्जय उवाच। 8-1-0x(4830)(54965)
हते द्रोणे महेष्वासे तव पुत्रा महारथाः।
बभूवुरस्वस्थमुखा विषण्णा गतचेतसः॥ 8-1-1(54966)
अवाङ्मुखाः शस्त्रभृतः सर्व एव विशाम्पते।
अवेक्षमाणाः शोकार्ता नाभ्यभाषन्परस्परम्॥ 8-1-2(54967)
तान्दृष्ट्वा व्यथिताकारान्सैन्यानि तव भारत।
ऊर्ध्वमेव निरैक्षन्त दुःखत्रस्तान्यनेकशः॥ 8-1-3(54968)
शस्त्राण्येषां तु राजेन्द्र शोणिताक्तानि सर्वशः।
प्राभ्रश्यन्त कराग्रेभ्यो दृष्ट्वा द्रोणं हतं युधि॥ 8-1-4(54969)
तानि बद्वान्यरिष्टानि लम्बमानानि भारत।
अदृश्यन्त महाराज नक्षत्राणि यथा दिवि॥ 8-1-5(54970)
तथा तु स्तिमितं दृष्ट्वा गतसत्वमवस्थितम्।
बलं तव महाराज राजा दुर्योधनोऽब्रवीत्॥ 8-1-6(54971)
भवतां बाहुवीर्यं हि समाश्रित्य मया युधि।
पाण्डवेयाः समाहूता युद्वं चेदं प्रवर्तितम्॥ 8-1-7(54972)
तदिदं निहते द्रोणे विषण्णमिव लक्ष्यते।
युध्यमानाश्च समरे योधा वध्यन्ति सर्वशः॥ 8-1-8(54973)
जयो वाऽपि वधो वाऽपि युध्यमानस्य संयुगे।
भवेत्किमत्र चित्रं वै युध्यध्वं सर्वतोमुखाः॥ 8-1-9(54974)
पश्यध्वं च महात्मानं कर्णं वैकर्तनं युधि।
प्रचरन्तं महेष्वासं दिव्यैरस्त्रैर्महाबलम्॥ 8-1-10(54975)
यस्य वै युधि सन्त्रासात्कुन्तीपुत्रो धनञ्जयः।
निवर्तते सदा मन्दः सिंहात्क्षुद्रमृगो यथा॥ 8-1-11(54976)
येन नागायुतप्राणो भीमसेनो महाबलः।
मानुषेणैव युद्धेन तामवस्थां प्रवेशितः॥ 8-1-12(54977)
येन दिव्यास्त्रविच्छूरो मायावी स घटोत्कचः।
अमोघया रणे शक्त्या निहतो भैरवं नदन्॥ 8-1-13(54978)
तस्य दुर्वारवीर्यस्य सत्यसन्धस्य धीमतः।
बाह्वोर्द्रविणमक्षय्यमद्य द्रक्ष्यथ संयुगे॥ 8-1-14(54979)
द्रोणपुत्रस्य विक्रान्तं राधेयस्यैव चोभयोः।
पश्यन्तु पाण्डुपुत्रास्ते विष्णुवासवयोरिव॥ 8-1-15(54980)
सर्व एव भवन्तश्च शक्ताः प्रत्येकशोऽपि वा।
पाण्डुपुत्रान्रणे हन्तुं ससैन्यान्किसु संहताः।
वीर्यवन्तः कृतास्त्राश्च द्रक्ष्यथाद्य परस्परम्॥ 8-1-16(54981)
सञ्जय उवाच। 8-1-17x(4831)
एवमुक्त्वा ततः कर्णं चक्रे सेनापतिं तदा।
तव पुत्रो महावीर्यो भ्रातृभिः सहितोऽनघ॥ 8-1-17(54982)
सैनापत्यमथावाप्य कर्णो राजन्महारथः।
सिंहनादं विनद्योच्चैः प्रायुध्यत रणोत्कटः॥ 8-1-18(54983)
ससृञ्जयानां सर्वेषां पाञ्चालानां च मारिष।
केकयानां विदेहानां चकार कदनं महत्॥ 8-1-19(54984)
तस्येषुधाराः शतशः प्रादुरासञ्छरासनात्।
अग्रे पुङ्खेषु संसक्ता यथा भ्रमरपङ्क्तयः॥ 8-1-20(54985)
स पीडयित्वा पाञ्चालान्पाण्डवांश्च तरस्विनः।
हत्वा सहस्रशो योधानर्जुनेन निपातितः॥ ॥ 8-1-21(54986)
इति श्रीमन्महाभारते कर्णपर्वणि तृतीयोऽध्यायः॥ 3 ॥
Mahabharata - Karna Parva - Chapter Footnotes
8-1-21 विह्वलः चलनासमर्थः काष्ठवत्पतितः॥ 8-1-25 अन्तःपुराणि स्त्रियः॥ 8-1-27 कदल्यइव वेपमाना आसन्निति शेषः॥ 8-1-29 दृष्ट्वा मनसैवात्मप्रत्ययेन दुःखवतीर्ज्ञत्वा॥ 8-1-34 इष्टवियोगमात्रेण दशरथादिर्मृतः। अस्यतु जये नैराश्यमधिकं मरणकारणमस्तीति भावः॥ 8-1-1 प्रथमोऽध्यायः॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|